|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.99. अध्यायः 099
Mahabharata - Vana Parva - Chapter Topics
वृत्रासुरनिपीडितशकादिभिर्ब्रह्मवचनाद्वज्रनिर्माणाय दधीचंप्रति तच्छरीरास्थिप्रार्थनम् ॥ 1 ॥ त्वष्ट्रा दधीचास्थिभिर्वज्रायुधनिर्माणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-99-0x(2037)(20009)
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः।
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजात्तम ॥ 3-99-1(20010)
लोमश उवाच। 3-99-2x(2038)
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्।
अगस्त्यस्य महाराज प्रभावममितौजसः ॥ 3-99-2(20011)
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः।
कालकेया इतिख्याता गणाः परमदारुणाः ॥ 3-99-3(20012)
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः।
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् ॥ 3-99-4(20013)
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा।
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे ॥ 3-99-5(20014)
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह।
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् ॥ 3-99-6(20015)
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ।
दधीच इतिविख्यातो महानृषिरुदारधीः ॥ 3-99-7(20016)
तं गत्वा सहिताः सर्वेवरं वै संप्रयाचत।
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना ॥ 3-99-8(20017)
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः।
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस् हिताय वै ॥ 3-99-9(20018)
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति।
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम् ॥ 3-99-10(20019)
महच्छत्रुहणं घोरं ष़डश्चं भीमनिःस्वनम्।
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः ॥ 3-99-11(20020)
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्।
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् ॥ 3-99-12(20021)
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः।
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् ॥ 3-99-13(20022)
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव।
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम् ॥ 3-99-14(20023)
महिषैश्च वराहैश्च सृमरैश्चमरैरपि।
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः ॥ 3-99-15(20024)
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः।
सरोवगाढैः क्रीडद्भिः समन्तादनुनादितम् ॥ 3-99-16(20025)
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्।
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः ॥ 3-99-17(20026)
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्।
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् ॥ 3-99-18(20027)
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्।
जाज्वल्यमानं वपुषा यथा साक्षात्पितामहम् ॥ 3-99-19(20028)
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च।
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना ॥ 3-99-20(20029)
ततो दधीचः परमप्रतीतः
सुरोत्तमांस्तानिदमभ्युवाच।
करोमि यद्वो हितमद्य देवाः
स्वं चापि देहंस्वयमुत्सृजामि ॥ 3-99-21(20030)
स एवमुक्त्वा द्विपदांवरिष्ठः
प्राणान्वशी स्वान्सहसोत्ससर्ज।
ततः सुरास्ते जगृहुः परासो-
रस्थीनि तस्याथ यथोपदेशम् ॥ 3-99-22(20031)
प्रहृष्टरूपाश्च जयाय देवा-
स्त्वष्टारमागम् तमर्थमूचुः।
त्वष्टा तु तेषां वचनं निशम्य
प्रहृष्टरूपः प्रयतः प्रयत्नात् ॥ 3-99-23(20032)
चकार वज्रं भृशमुग्ररूपं
कृत्वा च शक्रं स उवाच हृष्टः।
अनेन वज्रप्रवरेण देव
भस्मीकुरुष्वाद्य सुरारिमुग्रम् ॥ 3-99-24(20033)
ततो हतारिः सगणः सुखं वै
प्रशाधिकृत्स्नं त्रिदिवं दिविष्ठः।
त्वष्ट्रा तथोक्तस्तु पुरंदरस्त-
द्वज्रं प्रहृष्टः प्रयतो ह्यगृह्नात् ॥ 3-99-25(20034)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-99-3 कालेया इति विख्याता इति क. पाटः ॥ 3-99-8 सवो दास्यति ईप्सितमिति शेषः .। 3-99-11 षडश्रं षट्रकोणम् ॥ 3-99-16 करेणुभिर्हस्तिनीभिः प्रभिन्नं मदस्राविकरटामदोद्भेदस्थानं गण्डस्थलैकदेशस्तस्य मुखमुपरिभागो तेषा तैः ॥ 3-99-18 त्रिविष्टपसमप्रख्य स्वर्गतुल्यप्रकाशम् ॥ 3-99-22 परासोः गतप्राणस्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|